दीवाली पर संस्कृत में निबंध। Essay on Diwali in Sanskrit | દીવાળી પર નીબંધ સંસ્કૃત ભાષામાં

दीवाली पर संस्कृत में निबंध। Essay on Diwali in Sanskrit | દીવાળી પર નીબંધ સંસ્કૃત ભાષામાં 


"उत्सवप्रियाः खलु मनुष्याः।"
अस्माकं देशे अनेके उत्सवाः सन्ति। तेषु एकतमः अस्ति दीपावलिः। दीपावलिः पर्व भारतवर्षस्य एकः महान् उत्सवः अस्ति । इदं कथ्यते यत् अस्मिन् एव दिने श्रीरामः रावणादि राक्षसान् निहत्य सीतया लक्ष्मणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन् । तदा अयोध्यावासिनः प्रसन्नो भूत्वा स्वगृहेषु राजमार्गेषु च दीपकान् प्रज्वालयन् । जनश्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत्।

दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । आश्विनमासस्य कृष्णपक्षस्य द्वादशीत: आरभ्य कार्त्तिकमासस्य शुक्लपक्षस्य द्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व ।

सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् प्रज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपावलि समये वणिजोपऽपि स्वान् आपणान् बहुविधं सज्जयति।  विद्युद्दीपकानां प्रकाशेन आपणः नितरां शोभते। दीपानां प्रकशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवं प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति । अयं कालः नात्युष्णो नाप्यतिशीतो भवति। तेन मोदन्ते अस्मिन् महोत्सवे मानवाः।


1 Comments

Previous Post Next Post